वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: त्रितः छन्द: गायत्री स्वर: षड्जः

अ॒भि द्रोणा॑नि ब॒भ्रव॑: शु॒क्रा ऋ॒तस्य॒ धार॑या । वाजं॒ गोम॑न्तमक्षरन् ॥

अंग्रेज़ी लिप्यंतरण

abhi droṇāni babhravaḥ śukrā ṛtasya dhārayā | vājaṁ gomantam akṣaran ||

पद पाठ

अ॒भि । द्रोणा॑नि । ब॒भ्रवः॑ । शु॒क्राः । ऋ॒तस्य॑ । धार॑या । वाज॑म् । गोऽम॑न्तम् । अ॒क्ष॒र॒न् ॥ ९.३३.२

ऋग्वेद » मण्डल:9» सूक्त:33» मन्त्र:2 | अष्टक:6» अध्याय:8» वर्ग:23» मन्त्र:2 | मण्डल:9» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (बभ्रवः) ज्ञान कर्म उपासना को धारण करनेवाले (शुक्राः) पवित्र अन्तःकरणवाले विद्वान् (ऋतस्य धारया) सच्चाई की धारा से (अभि द्रोणानि) सत्पात्रों के प्रति उपदेश देकर (वाजम् गोमन्तम्) उनके अनेक प्रकार के ऐश्वर्य को (अक्षरन्) बढ़ाते हैं ॥२॥
भावार्थभाषाः - जो लोग वेदविद्या का सदुपदेश देते हैं, उनके सदुपदेश से सब प्रकार के अन्नादिक ऐश्वर्य बढ़ते हैं ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (बभ्रवः) ज्ञानकर्मोपासनज्ञाः (शुक्राः) पवित्रान्तःकरणाः विद्वांसः (ऋतस्य धारया) सत्यस्य स्रोतसा (अभि द्रोणानि) सत्पात्राणि उपदिश्य (वाजम् गोमन्तम्) तेषामनेकधैश्वर्याणि (अक्षरन्) वर्द्धयन्ति ॥२॥